श्रीसदाशिवपरिसरः
श्रीसदाशिवपरिसरः इदम्प्रथमतया संस्कृतस्य विकासाय, प्रचाराय च पण्डितहरिहरदाशमहोदयानाम् अनवरतप्रयासैः संस्कृत TOL रूपेण 1865 तमे वर्षे आरब्धः। ततः 1888 तमे वर्षे संस्कृतविद्यालयत्वेन परिणतः आसीत्। पुनः 1918 तमे वर्षे संस्कृतविद्यालयः अयं संस्कृतमहाविद्यालयरूपम् अवाप्नोत्। ततः 1971 तमे वर्षे श्रीसदाशिवकेन्द्रीयसंस्कृतविद्यापीठं भूत्वा राष्ट्रियसंस्कृसंस्थानस्य अन्तर्गतमभूत्। राष्ट्रियसंस्कृसंस्थानम् इति संस्था सम्पूर्णे देशे संस्कृतस्य विकासाय, प्रचाराय च सोसायटीज रजिस्ट्रेशन एक्ट्, १८६० (एक्ट् XXI आफ् १८६०) इत्यस्य अन्तर्गतं पञ्जीकृता स्वायत्तसङ्गठनरूपेण १९७० तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्के स्थापिता। अस्याः पूर्णवित्तपोषणं भारतसर्वकारेण क्रियते। राष्ट्रियसंस्कृसंस्थानम् इति संस्थेयं संस्कृतस्य प्रसाराय विकासाय च शिखरनिकायरूपेण कार्यं करोति तथा च संस्कृताध्ययनस्य विकासाय विविधाः योजनाः च निर्मातुं कार्यान्वितुं च शिक्षामन्त्रालयस्य सहायतां करोति। भारतसर्वकारस्य शिक्षामन्त्रालयेन १९५६ तमे वर्षे संस्कृतभाषायाः, शिक्षायाः च प्रचारस्य विकासस्य च सर्वेषु पक्षेषु विचारणार्थं स्थापितेन संस्कृत-आयोगेन कृतानां विविधानां अनुशंसानाम् प्रभावपूर्णकार्यान्वयनाय नोडल-निकायरूपेणापि भूमिकां इयं संस्था स्वीकृतवती अस्ति। २०२० तमे वर्षे एप्रिल-मासस्य ३० दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालयाधिनियमः - २०२० इत्यस्य माध्यमेन राष्ट्रियसंस्कृतसंस्थानं केन्द्रीयसंस्कृतविश्वविद्यालयत्वेन घोषितम्।
- Notice: Time Table for 2nd, 4th, and 6th Semester Examinations 2025 Released – Check Exam Dates and Details for All Courses
Date: 20-MAR-2025 - Notice: Examination Form Fill-up and Fees for 2nd, 4th, and 6th Semesters 2025 via Samarth Portal – Details for Regular and Re-appear/Improvement Students
Date: 20-MAR-2025
त्वरित लिंक
