Central Sanskrit University Website    Screen Reader Access  |  Skip to Main Content  |   |   |  English Version  |  संस्कृतसंस्करणम्  |  हिन्दी संस्करण
Grahavatika (ग्रहवाटिका)

Dr. Jyoti Prasad Dash

Asst. Professor (contractual)
In-charge of Grahavatika

E-Mail id : astrologerjyotiprasad@gmail.com
Phone No.- 7897518522
भारतीयानां यद्दर्शनं याश्चपरम्पराः ता अतीव प्राचीनाः । तत्त्वदर्शिमहर्षिणां ऐश्वरीयदिव्यदृष्टिवलेन समाजस्य कल्याणाय विविधा दैवप्रदत्ता आयामाः सम्यक् व्यवहृताः । शारीरिकसुस्थतायाः काश्चन परिकल्पनासीत् प्राक्तनीयानाम्। स्वस्थे शरीरे स्वस्थः मनः वसति। परिदृश्यमानं ब्रह्माण्डं ग्रहाणां गत्यनुसारं प्रतिपलं वैलक्षण्य गत्या सरति। ग्रहाधीनं जगत्सर्वं ग्रहास्ते देवतांशकाः। अर्थात् चराचरान् प्रभावयन्ति ग्रहाः। उदाहरणरूपेण औषधीनां निर्माणे चन्द्रस्य भूमिका….। ग्रहाः प्रत्यक्षप्रभावकाः सन्तीति वयमनुभवामः। चन्द्रः औषधीनां पतिरिति काचित् शास्त्रोक्तिरस्ति। लतागुल्मेषु औषधीयतत्त्वानां यत् सञ्चारः भवति तत्तु चन्द्रसकाशादेव। प्रत्येकस्य ग्रहस्य प्रत्यक्ष-परोक्षप्रभावः दशाजन्यं भवतु, गोचरजन्यं वा भवतु तत् मानवः अनुभवति। तदर्थं अशुभप्रभावफलप्रशान्तये विविधानुष्ठानं,व्रतं दानञ्च करोति। धनिकाः खलु रत्नोपचारं वाञ्छन्ति। रत्नोपचारितव्यक्तिविशेषः मानसिकीशान्तिमनुभवति।

कथनस्याभिप्रायोSयं केन्द्रीय-संस्कृत-विश्वविद्यालयः श्रीसदाशिवपरिसरः ज्योतिष विभागेन निर्मिता काश्चन वाटिका यत्र नवग्रहाणां वृक्षाः निवेशिताः सन्ति। यस्योपयोगः सर्वेषां परिसरपरिवाराणां कृते अपि च समाजस्य प्रत्येकस्य वर्गस्य कृते हिताय स्यात्। अशुभग्रहाणां शान्तये तस्य वृक्षस्य मूले जलदानं, परिभ्रमणं पूजनमित्यादिकं कर्तुं शक्यते। सामान्यपरिश्रमेण विनाव्ययं स्व अशुभ ग्रहस्य फलं प्रशमयितुं शुभताञ्च प्राप्तुं अस्याः ग्रहवाटिकायाः सदुपयोगः कर्त्तुं शक्यते।

ग्रहवृक्षाणां नामानि-
अर्कः पलाशः खदिरो ह्यपामार्गश्च पिप्पलः।
उदुम्बरः शमीदूर्वा कुशाश्च समिधः क्रमात्।।


ज्योतिषविभागस्य समेSपि छात्राः अस्याः वाटिकायाः परिष्करणं यत्नं च विधास्यन्ते। तेषां छात्राणां मार्गदर्शनत्वेनाहं ज्योतिप्रसादः कार्यं कुर्वन्नस्मि अपि च विभागस्य सर्वेपि आचार्याः श्रद्धया मनोयोगेन समर्पितभावनया च तस्य रक्षणं सरक्षणं शोभावर्द्धनं च कर्त्तुं यतमानाः सन्ति।

विभागस्य कश्चन नूतनचिन्तनं वर्तते यत् परिसरप्राङ्गणे नक्षत्रवाटिकानिर्माणमपि भवेत्। येन नक्षत्रपी़ड़ाजन्यशान्तिरपि वृक्षाशीर्वादेन परिसरान्तेवासिनां बहिस्थानाञ्च कृते स्यादिति। नक्षत्रसमिधाः यथा-

कारस्कारोथ धात्री च उदुम्बरतरुः पुनः……….

ज्योतिषविभागस्य ग्रहवाटिका