Central Sanskrit University Website    Screen Reader Access  |  Skip to Main Content  |   |   |  English Version  |  संस्कृतसंस्करणम्  |  हिन्दी संस्करण
SARVADARSHAN
सर्वदर्शनविभागस्य इतिवृत्तम्

सर्वदर्शनविभागस्य अयमारम्भः 1971 तमे वर्षे समभवत् । श्रीचैतन्यमठाधीशाः न्यायशास्त्रविशारदाः आचार्यराधारमणदासमहाराजमहोदयाः विभागस्य प्रथमाचार्यरूपेण प्रातिष्ठन्। ततः राष्ट्रपतिपुरस्कारभाजः मीमांसालङ्कारादिशास्त्रेषु कृतभूरिश्रमाः पं. वैकुण्ठविहारीनन्दशर्माणः विभागस्य दायित्वं निरवहन्। पं. वैद्यनाथमिश्रमहोदयाः, पं. नरसिंहवापुजीदेवलीमहोदयाः, पं. त्रिलोचनमिश्रप्रभृतयः तपोधनाः विद्याधनाश्च आचार्याः स्वीय-अकुण्ठितसेवया विभागं अपूष्णन्। ततः वेदान्तन्यायमीमांसादिशास्त्रधूरीणाः प्रो. वेम्पटिकुटुम्बशास्त्रिवर्याः विभागम् अधिगत्य विभागं समवर्धयन्। ततः वेदान्तविद्याविशारदाः प्रो. जि. गङ्गन्नमहोदयाः, प्रो. सी.एच्.एन्. प्रसादरावमहोदयाः विभागममुं विद्यादानेन संवर्धितवन्तः। सन्दर्भेऽस्मिन् वेदान्तदर्शनादिशास्त्रेषु कृतश्रमाणां प्यारीमोहनपट्टनायकमहोदयानां सेवां विभागः हार्दं स्मरति। एवमेव न्यायशास्त्रविशारदाः डॉ. सच्चिदानन्दमिश्रचरणाः विभागेऽस्मिन् विद्यादानं अकार्षु। ततः डॉ. सत्यम्-कुमारीमहोदया विभागस्यास्य दायित्वं अगृह्णन् । अस्मिन्नेव विभागे सातिशयवत्सला न्यायमीमांसादर्शनादिशास्त्रेषु कृतश्रमाः डॉ. सावित्रीशतपथीमहोदयाः 1982 तः 2021 पर्यन्तं निरन्तरं दर्शनशास्त्रं अध्याप्य विभागं संवर्धितवत्यः। एवमेव संस्थानस्य अनुग्रहेण विभागोऽयं स्थिरं उपाचार्यपदं लब्धः। पञ्चोत्तरद्विसहस्रतमवर्षतः सर्वदर्शनवेदान्तादिशास्त्रनिष्णाताः प्रो. सुकान्तकुमारसेनापतिमहोदयाः स्वसेवया विभागस्य सर्वात्मना विकासं व्यदधुः । सम्प्रति च ते दर्शनविद्यास्थानत्वेन भ्राजमानाः अगरतलापरिसरस्य निदेशकपदञ्च समलंकुर्वन्ति । एवञ्च अध्येतृणां संख्याभिवृद्धिं परिलक्ष्य शप्ताधिकद्विसहस्रतमवर्षतः आंशकालिकाध्यापकानां नियुक्तिः विभागेऽस्मिन् प्राचलत् । डॉ. रस्मिताशतपथी, डॉ. स्वप्नस्मितासाहु क्रमशः वर्षमेकं वर्षद्वयं च सेवां कृतवत्यौ । एवमेव विभागस्यैव अन्तेवासिनः डॉ. नन्दिघोषमहापात्रमहोदयाः नवाधिकद्विसहस्रतमवर्षतः अद्यावधि स्वविद्यावैभवेन छात्रकदम्बस्यावलम्बनत्वेन विराजन्ते । 2012 तमे वर्षे डॉ. सावित्रीशतपथीमहोदयाः स्थानान्तरीकरणेन एतस्मात् परिसरात् जम्मूस्थरणवीरपरिसरं समेत्य तत्रस्थसर्वदर्शनविभागे विभागाध्यक्षपदवीमलङ्कृतवत्यः । तदग्रे 2013 तमे सम्वत्सरे दर्शनवेदान्तादिशास्त्रविशारदाः प्रो. दाशगौरप्रियामहोदयाः आचार्यपदमवाप्य वेदव्यासपरिसरतः समागत्य विभागममुं पर्यभूषयन् । ताश्च सम्प्रति विभागस्यास्य अध्यक्षपदे समासीनाः विभागस्य कार्यजातं सम्पादयन्ती । न्यायशास्त्रे विद्वन्मूर्धन्याः डॉ. के.रघुनाथन्महोदयाः 2011 तः 2016 यावत् विभागेऽस्मिन् सेवां कृत्वा सेवानिवृत्ताः सञ्जाताः । 2012 तः 2015 पर्यन्तं दर्शनशास्त्रमर्मज्ञाः डॉ. पवनव्यासमहोदयाः विभागेऽस्मिन् अध्यापयामासुः । इदानीं ते जयपुरपरिसरे कार्यं कुर्वाणाः राजन्ते । किञ्च डॉ. ज्योतिप्रकाशनन्दमहोदयाः 2010 तः 2017 पर्यन्तं जम्मूस्थे रणवीरपरिसरे अध्यापनं संसाध्य विभागममुं समागत्य अध्यापकत्वेन राजमानाः सन्ति । अपि च डॉ. प्रदीपकुमारसाहुमहोदयाः 2012 तः 2015 पर्यन्तं जयपुरपरिसरे अध्यापयन्तः अत्रागत्य विभागमिमं विभूषितं समपादयन् । 2016 तमे वर्षे विभागस्यास्यान्तेवासिनः डॉ. अजयकुमारपाण्डेमहोदयाः अतिथि-अध्यापकत्वेन विभागमिमं समलङ्कृतवन्तः । साम्प्रतं 2022 तमे वर्षे श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य सर्वदर्शनविभागे नियुक्तिं लभमानाः अध्यापयन्ति । अस्मिन्नेव वर्षे विभागस्यैव नैकप्रतिभान्विताः अध्येतारः डॉ. सुव्रतषडङ्गीमहोदयाः विभागेऽस्मिन् नूतनतया अध्यापयन्तः वर्तन्ते ।
सम्प्रति विभागेऽस्मिन् प्रायः सार्धद्विशतं (250) अध्येतारः दर्शनशास्त्रं अधीयानाः वर्तन्ते । विभागोऽयं अध्ययनाध्यापनैः साकं विविधदार्शनिकप्रकल्पान् शैक्षिककार्यक्रमान् आयोज्य अध्येतृन् ज्ञानसंवर्धनाय प्रेरयति । विभागस्य कार्याणि अग्रिमकार्ययोजनाः च –
  1. वार्षिकपत्रिकादर्शनप्रभायाः प्रकाशनम् ।
  2. छात्राणां सामूहिकप्रकल्पस्य विकासः ।
  3. दार्शनिकचित्रप्रकल्पस्य विकासः ।
  4. प्रस्थानत्रयभाष्यनिर्वचनकोशस्य विकासः ।
  5. दुर्लभग्रन्थानां E-Text प्रकल्पस्य विकासः ।

सम्प्रति विभागस्य नैके विद्यार्थिनः राष्ट्रीयपात्रतापरीक्षां (NET) उत्तीर्य विविधेषु विश्वविद्यालयेषु महाविद्यालयेषु च शिक्षादानमकार्षुः।
अन्ये च अनेके छात्राः उच्चमाध्यमिकविद्यालयेषु संस्कृतशिक्षकत्वेन नियुक्तीः लभमानाः शिक्षादाने तत्पराः दृश्यन्ते।
अपरे शोधप्रवेशपरीक्षोत्तीर्णा अनुसन्धित्सवः शीर्षकान्तरमवलम्व्य शोधकर्येषु प्रवर्तमानाः वरीवृत्यन्ते इति।
  • सम्पूर्णे विश्वे भारतीयदर्शनस्य महत्त्वपूर्णं स्थानपरिकल्पनम् ।
  • देशे विद्यमानानां दर्शनशास्त्रसम्बद्धपाण्डुलिपीनां संग्रहणं, E-Text करणं प्रकाशनञ्च ।
  • भारतीयदर्शनशास्त्राणां सामाजिकजीवनोपयोगित्वप्रतिपादनम् ।
  • भारतीयदर्शनशास्त्रशिक्षणमाध्यमेन समुचितव्यक्तित्वविकासः भूयादिति तथ्यज्ञापनम् ।
  • सामाजिकगणमाध्यम (Social Media) द्वारा भारतीयदर्शनशास्त्राणां प्रचारः प्रसारश्च ।

Prof. (Smt.) G.P. Dash
Professor
Sl.No. Name Designation Profile Details
1
Prof. (Smt.) G.P. Dash
Professor
2
Dr. Nandighosh Mohapatra
Asst. Professor
3
Dr. Pradeep Kumar Sahu
Assistant Professor (Contract)
4
Dr. Jyoti Prakash Nanda
Guest Faculty (Assistant Professor Grade)
5
Dr. Subrat Sarangi
Guest Faculty (Assistant Professor Grade)